न वा उ॒ मां वृ॒जने᳚ वारयन्ते॒ न पर्व᳚तासो॒ यद॒हं म᳚न॒स्ये ।
मम᳚ स्व॒नात्कृ᳚धु॒कर्णो᳚ भयात ए॒वेदनु॒ द्यून्कि॒रण॒ः समे᳚जात् ॥
मम᳚ स्व॒नात्कृ᳚धु॒कर्णो᳚ भयात ए॒वेदनु॒ द्यून्कि॒रण॒ः समे᳚जात् ॥
पदपाठः (Word-by-word)
न । वै । ऊं॒ इति᳚ । माम् । वृ॒जने᳚ । वा॒र॒य॒न्ते॒ । न । पर्व᳚तासः । यत् । अ॒हम् । म॒न॒स्ये ।
मम᳚ । स्व॒नात् । कृ॒धु॒॑कर्णः᳚ । भ॒या॒ते॒ । ए॒व । इत् । अनु᳚ । द्यून् । कि॒रणः᳚ । सम् । ए॒जा॒त् ॥
मम᳚ । स्व॒नात् । कृ॒धु॒॑कर्णः᳚ । भ॒या॒ते॒ । ए॒व । इत् । अनु᳚ । द्यून् । कि॒रणः᳚ । सम् । ए॒जा॒त् ॥
सायणभाष्यम् (Sayana Commentary)
वैउ इत्येतैव वृजने संग्रामे मां युद्धार्थमुपस्थितं संतं न वायरयन्ते केचिन्निवारयितुं समर्थान भवन्ति अहं यत्कर्म मनस्ये मनसा कर्तुमिच्छामि पर्वतासः अतितरणक्षमाहिम- वदादयोगिरयः तत्कर्म मनसा सोढुं न शक्नुवन्तीत्यर्थः । किञ्च ममेन्द्रस्य स्वनात् शब्दादेव कृधुकर्णोनामासुरः यद्वा कृधुकर्णोनामासुरः यद्वा कृधुकर्णोह्र्स्वकर्णः मंदश्रवणेन्द्रियोबधिरः स्थावरापिपीलिकादिरपि भयाते बिभेति । अपिच एवेत् एवमेव कृधुकर्णवत् अनुद्यून् प्र- तिदिनमित्यर्थः किरणः अन्तर्णीतमत्वर्थमेतत् किरणवान्रश्मिवानादित्यः समेजात् सम्यक् कंपते चलति नियमेन प्रयातीत्यर्थः ॥ ५ ॥