श्रवणम्

10.27.8
गावो॒ यवं॒ प्रयु᳚ता अ॒र्यो अ᳚क्ष॒न्ता अ᳚पश्यं स॒हगो᳚पा॒श्चर᳚न्तीः ।
हवा॒ इद॒र्यो अ॒भित॒ः समा᳚य॒न्किय᳚दासु॒ स्वप᳚तिश्छन्दयाते ॥
▶ पदपाठः (Word-by-word)
गावः᳚ । यव᳚म् । प्र॑यु᳚ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒ह॑गो᳚पाः । चर᳚न्तीः ।
हवाः᳚ । इत् । अ॒र्यः । अ॒भितः᳚ । सम् । आ॒य॒न् । किय᳚त् । आ॒सु॒ । स्व॑प᳚तिः । छ॒न्द॒या॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गावोधेनवः प्रयुताः प्रकर्षेण मिश्रिताः परस्परेण सहभूताः यवं मद्वृष्टिजनितयवादि घासं अक्षन् अदंति भक्षयन्ति अर्यः सर्वस्य स्वाम्यहं तागाः अपश्यं पश्यामि । कीदृशीः सहगोपाः पशुपालकेन सहिताः चरन्तीः घासं भक्षयन्तीः एवंभूतास्ताः परया प्रीत्या पश्यामीत्यर्थः । किञ्च हवाः वाहनदोहनार्थमाह्वानार्हाः गावः अर्यः द्वितीयार्थे प्रथमा अर्यं स्वामिनं प्रति अभितः सर्वतः समायन् समित्येकीभावे एकीभूय आगच्छन्ति । इदि- तिपूरणः । आगतास्वासु गोषु स्वपतिः स्वानां गवां स्वामी कियत् क्षीरं छन्दयाते दोग्धुं कामयते मदर्थं दोग्ध्रीरित्यर्थः । गावआशिरं दुहे इतिवचनात् ॥ ८ ॥