श्रवणम्

10.27.14
बृ॒हन्न᳚च्छा॒यो अ᳚पला॒शो अर्वा᳚ त॒स्थौ मा॒ता विषि᳚तो अत्ति॒ गर्भ᳚ः ।
अ॒न्यस्या᳚ व॒त्सं रि᳚ह॒ती मि᳚माय॒ कया᳚ भु॒वा नि द᳚धे धे॒नुरूधः᳚ ॥
▶ पदपाठः (Word-by-word)
बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा᳚ । त॒स्थौ । मा॒ता । वि॑सि᳚तः । अ॒त्ति॒ । गर्भः᳚ ।
अ॒न्यस्याः᳚ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया᳚ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसुक्रः अनयादित्यात्मानमिन्द्रं स्तौति । बृहन्महानादित्यः अच्छायः छायावर्जितः त- मोरहितइत्यर्थः अपलाशः पर्णरहितः पराशदनवर्जितोविनाशरहितइत्यर्थः । अर्वा सतगामी तस्थौ तिष्ठति । किञ्च माता वृष्टिप्रदानद्वारेण सर्वस्य जगतोनिर्माता विषितोविमुक्तः निरालंबनइत्यर्थः गर्भः त्रैलोक्यस्य गर्भभूतः आदित्यात्मेन्द्रः अत्ति हवींषि भक्षयति । यद्वा अनेन विनाशः लक्ष्यते पापानि नाशयति किं अन्यस्याः अदित्याख्यायादेवमातुः वत्समप- त्य भूतं आदित्यं रिहती आस्वादयन्ती उपजीवन्ती वर्धयन्ती मिमाय निर्मिमीते पूर्वस्यां दिश्यहन्यहनि उत्पादयतीत्यर्थः । कया भुवा केन भावेनाभिप्रायेण भक्त्या भयेन चेत्यर्थः धेनुर्द्यौः तं उदकस्याधारत्वात् क्षरितृत्वाच्च ऊधः स्थानीयमादित्यं निदधे स्थापयति यद्वा धेनुर्गौः ऊधोयथा तद्वदादित्यं द्यौर्धारयति ॥ १४ ॥