श्रवणम्

10.27.20
ए॒तौ मे॒ गावौ᳚ प्रम॒रस्य᳚ यु॒क्तौ मो षु प्र से᳚धी॒र्मुहु॒रिन्म᳚मन्धि ।
आप᳚श्चिदस्य॒ वि न᳚श॒न्त्यर्थं॒ सूर᳚श्च म॒र्क उप᳚रो बभू॒वान् ॥
▶ पदपाठः (Word-by-word)
ए॒तौ । मे॒ । गावौ᳚ । प्र॒॑म॒रस्य᳚ । यु॒क्तौ । मो इति᳚ । सु । प्र । से॒धीः॒ । मुहुः᳚ । इत् । म॒म॒न्धि॒ ।
आपः᳚ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ᳚म् । सूरः᳚ । च॒ । म॒र्कः । उप᳚रः । ब॒भू॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कार्यकारणयोरुपचारात् आत्मावैपुत्रनामसीतिवचनात् चेन्द्ररूपेणावस्थितस्य प्रमरस्य प्रकर्षेण शत्रूणां मारयितुः मे मम स्वभूतौ एतावेतादृशौ युक्तौ सुष्ठुपूजितौ गावौ शत्रून् यज्ञांश्च प्रतिगन्त्दारौ हरी मोप्रसेधीः स्तुत्यौपसंहारकरणेन अस्मद्यज्ञात् मागमय । किं तर्हिमुहुरित् मुहुर्मुहुः ममन्धि पुनःपुनः स्तुहि ममात्मन्नित्यर्थः । आपश्चिद्वृष्टिलक्षणान्युद- कान्यपि अस्येन्द्रस्यार्थं गतिं विनशन्ति विनशतिर्व्याप्तिकर्मा व्याप्नुवन्ति । तथा सूरश्च सू- र्यश्च व्याप्नोति । कीदृशः मर्कः मार्जयिता सर्वस्य शोधयिता उपरः मेघसदृशः बभूवान् भवन् मेघवच्छीघ्रगतिः सन्नित्यर्थः ॥ २० ॥