श्रवणम्

10.27.12
किय᳚ती॒ योषा᳚ मर्य॒तो व᳚धू॒योः परि᳚प्रीता॒ पन्य᳚सा॒ वार्ये᳚ण ।
भ॒द्रा व॒धूर्भ᳚वति॒ यत्सु॒पेशा᳚ः स्व॒यं सा मि॒त्रं व᳚नुते॒ जने᳚ चित् ॥
▶ पदपाठः (Word-by-word)
किय᳚ती । योषा᳚ । म॒र्य॒तः । व॒धू॒॑योः । परि᳚॑प्रीता । पन्य᳚सा । वार्ये᳚ण ।
भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒॑पेशाः᳚ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ । जने᳚ । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कियती किं परिमाणा योषा स्त्रीजातिः मर्यतोमनुष्यसंबंधिनोभोगानाचरतः वधूयोः स्त्रीकामस्य सर्वात्मकस्यान्तर्यामिरूपेणावस्थितस्येन्द्रस्य प्रिप्रीता अनुरक्ता वशवर्तिनीत्यर्थः । कीदृशस्य वार्येण वरणीयेन पन्यसा स्तोत्रेण स्तुतस्य सतइतिशेषः । अपिच यत् या वधूः भद्रा कल्याणी सुपेशाः शोभनरूपा च भवति सा द्रौपदीदमयन्त्यादिका वधूः स्वयमात्मनैव जने चित् जनमध्येवस्थितमपि मित्रं प्रियमर्जुननलादिकं पतिं वनुते याचते स्वयंवरधर्मेण प्रार्थयते सच प्रीयमाणोवरजनोहमेवेत्यभिप्रायः । रूपंरूपंप्रतिरूपोबभूवेतिमन्त्रलिंगात्सर्वा- त्मकत्वादिति ॥ १२ ॥