श्रवणम्

10.27.18
वि क्रो᳚श॒नासो॒ विष्व᳚ञ्च आय॒न्पचा᳚ति॒ नेमो᳚ न॒हि पक्ष᳚द॒र्धः ।
अ॒यं मे᳚ दे॒वः स᳚वि॒ता तदा᳚ह॒ द्र्व᳚न्न॒ इद्व᳚नवत्स॒र्पिर᳚न्नः ॥
▶ पदपाठः (Word-by-word)
वि । क्रो॒श॒नासः᳚ । विष्व᳚ञ्चः । आ॒य॒न् । पचा᳚ति । नेमः᳚ । न॒हि । पक्ष᳚त् । अ॒र्धः ।
अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रु॑अ᳚न्नः । इत् । व॒न॒व॒त् । स॒र्पिः॑अ᳚न्नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विक्रोशनासः विविधं प्रजापतिंपितरमाह्वयन्तः विष्वञ्चः नानागतयोनानापुजनावा सर्वेङ्गिरसआयन् आगच्छन् प्रजापतेः सकाशादुत्पन्नाइत्यर्थः । उत्पद्यमानो नेमः अर्धः अ- ङ्गिरसां मध्ये एकोभागः पचाति प्रजापत्यर्थं हवींषि पचति अर्धः अपरोभागः नहि प- क्षत् नहि पचति । एतत्सर्वं कथमज्ञायि उच्यते—अयमीदृशोदेवः द्योतमानः सविता सर्व- स्य प्रेरकः आदित्योवा प्रजापतिवा मे मह्यं तत्सर्वं यथोक्तमाह । किञ्च सर्पिरन्नः घृतौ- दनः द्र्वन्नः इत् दार्वोदनोग्निरपि वनवत् हविर्द्वारेण प्रजापतिं वनति संभजते ॥ १८ ॥