श्रवणम्

10.27.6
दर्श॒न्न्वत्र᳚ शृत॒पा{4} अ᳚नि॒न्द्रान्बा᳚हु॒क्षद॒ः शर᳚वे॒ पत्य᳚मानान् ।
घृषुं᳚ वा॒ ये नि᳚नि॒दुः सखा᳚य॒मध्यू॒ न्वे᳚षु प॒वयो᳚ ववृत्युः ॥
▶ पदपाठः (Word-by-word)
दर्श᳚न् । नु । अत्र᳚ । शृ॒त॒॑पान् । अ॒नि॒न्द्रान् । बा॒हु॒॑क्षदः᳚ । शर᳚वे । पत्य᳚मानान् ।
घृषु᳚म् । वा॒ । ये । नि॒नि॒दुः । सखा᳚यम् । अधि᳚ । ऊं॒ इति᳚ । नु । ए॒षु॒ । प॒वयः᳚ । व॒वृ॒त्युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्मिन् जगति श्रृतपान् श्रृतानि पक्वानि सोमदिहवींष्यपहृत्य पिबतः अनिन्द्रान् इ- न्द्रेण मया वर्जितान् बाहुक्षदः बाहुभिर्यजमानान् शकलीकुर्वतः शरवे हिंसार्थं पत्यमाना- न् अभिपततो॓ऽसुरादीन् नु क्षिप्रं दर्शं अहमिन्द्रः पश्यामि एवं भूतेष्वेषु अधि उपरि पवयोमदीयान्यायुधानि ववृत्युः वर्तन्ते । वाशब्दः समुच्चये । घृषुं महान्तं च सखायं सखि- वत्प्रियं हितस्य कर्तारं मां ये निनिदुः निंदंति उइति समुच्चये एषु चोपरिमदीयान्यायु- धानि नुक्षिप्रं वर्तन्ते ॥ ६ ॥