सं यद्वयं᳚ यव॒सादो॒ जना᳚नाम॒हं य॒वाद᳚ उ॒र्वज्रे᳚ अ॒न्तः ।
अत्रा᳚ यु॒क्तो᳚॑वसा॒तार᳚मिच्छा॒दथो॒ अयु᳚क्तं युनजद्वव॒न्वान् ॥
अत्रा᳚ यु॒क्तो᳚॑वसा॒तार᳚मिच्छा॒दथो॒ अयु᳚क्तं युनजद्वव॒न्वान् ॥
पदपाठः (Word-by-word)
सम् । यत् । वय᳚म् । य॒व॒स॒॑अदः᳚ । जना᳚नाम् । अ॒हम् । य॒व॒॑अदः᳚ । उ॒रु॒॑अज्रे᳚ । अ॒न्तरिति᳚ ।
अत्र᳚ । यु॒क्तः । अ॒व॒॑सा॒तार᳚म् । इ॒च्छा॒त् । अथो॒ इति᳚ । अयु᳚क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥
अत्र᳚ । यु॒क्तः । अ॒व॒॑सा॒तार᳚म् । इ॒च्छा॒त् । अथो॒ इति᳚ । अयु᳚क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥
सायणभाष्यम् (Sayana Commentary)
अन्या ऋषिरिन्द्रप्रसादलब्धं स्वस्य सर्वात्म्यं प्रकाशयति । जनानां लोकानां मध्ये ये यवसादः तृणस्यात्तारः पशवः ते वयमिति संसम्यक् जानीहि उपसर्गश्रुतेर्योग्यक्रियाध्या- हारः । ये च यवादः यवापेलक्षितस्यान्नस्यात्तारोमनुष्यास्तेपि वयमिति संजानीहि । वस्तु तस्तु उर्वज्रे विस्तीर्णे अजिरेंगणे हार्दाकाशरूपे यत् अंतः अंतर्यामिरूपं ब्रह्म तदहमस्मि अत्रा स्मिन् हार्दाकाशे युक्तः समाहितोभवानिन्द्रः अवसातारं आत्मनः संभक्तारं इच्छात् इच्छति आत्मसाक्षात्कर्तुम् । अथो अपिच अयुक्तं अयोगिनं ववन्वान् द्वितीयार्थे प्रथमा ववन्वतं अतिशयेन विषयन् सेवमानं पुरुषं युनजत् युनक्ति संसारे शापानुग्रहसमर्थोभव- द्रूपोहमेवास्मीति भावः ॥ ९ ॥