श्रवणम्

10.27.4
यदज्ञा᳚तेषु वृ॒जने॒ष्वासं॒ विश्वे᳚ स॒तो म॒घवा᳚नो म आसन् ।
जि॒नामि॒ वेत्क्षेम॒ आ सन्त᳚मा॒भुं प्र तं क्षि᳚णां॒ पर्व᳚ते पाद॒गृह्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अज्ञा᳚तेषु । वृ॒जने᳚षु । आस᳚म् । विश्वे᳚ । स॒तः । म॒घ॑वा᳚नः । मे॒ । आ॒स॒न् ।
जि॒नामि᳚ । वा॒ । इत् । क्षेमे᳚ । आ । सन्त᳚म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व᳚ते । पा॒द॒॑गृह्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा अज्ञातेषु शरीरवस्त्रास्त्रबलादिभिः अपरिज्ञातेषु वृजनेषु संग्रामेषु आसं अहं यु- द्धार्थमुपविशामि तदा विश्वे सर्वे मघवानो हविर्लक्षणतपोलक्षणधनवन्तऋषयः सतः एवं वर्तमानस्य मे ममेन्द्रस्य समीपे आसन् उपविशन्ति मम वीर्यवृध्यर्थं मां स्तुवन्तस्तिष्ठन्ती त्यर्थः । अपिच क्षेमे जगत्पालने निमित्ते आसंतं आकारोभीत्यस्यार्थे वर्तते सर्वमभितः संतं आभुं महान्तं शत्रुं जिनामि वा विनाशयाम्येव नाव विनाशे संशयः इदितिपूरणः । तं महान्तं शत्रुं पादगृह्य पादौ गृहीत्वा पर्वते गिरौ प्रदक्षिणां प्रहितवानस्मि प्रक्षिपामि । ॥ ४ ॥