यदि॒मा वा॒जय᳚न्न॒हमोष᳚धी॒र्हस्त᳚ आद॒धे ।
आ॒त्मा यक्ष्म᳚स्य नश्यति पु॒रा जी᳚व॒गृभो᳚ यथा ॥
आ॒त्मा यक्ष्म᳚स्य नश्यति पु॒रा जी᳚व॒गृभो᳚ यथा ॥
पदपाठः (Word-by-word)
यत् । इ॒माः । वा॒जय᳚न् । अ॒हम् । ओष᳚धीः । हस्ते᳚ । आ॒॑द॒धे ।
आ॒त्मा । यक्ष्म᳚स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒॑गृभः᳚ । य॒था॒ ॥
आ॒त्मा । यक्ष्म᳚स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒॑गृभः᳚ । य॒था॒ ॥
सायणभाष्यम् (Sayana Commentary)
अहं यद्यदीमा ओषधीर्हस्त आदधे आधारयामि। किं कुर्वन्। वाजयन् रुग्णं बलिनं कुर्वन्। ततः पुरा यक्ष्मस्य रोगस्यात्मा नश्यति नष्टो भवति जीवगृभो यथा। जीवानां शकुनादीनां ग्राहकाद्व्याधाद्यथा जीवा नश्यन्ति तद्वत्। यद्वा। जीवगृभो मृत्योः सकाशाज्जीवोऽपह्रियते। तद्वत्॥११॥