या ओष᳚धी॒ः सोम᳚राज्ञीर्ब॒ह्वीः श॒तवि᳚चक्षणाः ।
तासां॒ त्वम᳚स्युत्त॒मारं॒ कामा᳚य॒ शं हृ॒दे ॥
तासां॒ त्वम᳚स्युत्त॒मारं॒ कामा᳚य॒ शं हृ॒दे ॥
पदपाठः (Word-by-word)
याः । ओष᳚धीः । सोम᳚॑राज्ञीः । ब॒ह्वीः । श॒त॑वि᳚चक्षणाः ।
तासा᳚म् । त्वम् । अ॒सि॒ । उ॒त्॑त॒मा । अर᳚म् । कामा᳚य । शम् । हृ॒दे ॥
तासा᳚म् । त्वम् । अ॒सि॒ । उ॒त्॑त॒मा । अर᳚म् । कामा᳚य । शम् । हृ॒दे ॥
सायणभाष्यम् (Sayana Commentary)
या ओषधीरोषधयः सोमाराज्ञीः सोमो राजा स्वामी यासां तास्तथोक्ता बह्वीरसङ्ख्याताः शतविचक्शणा बहुदरहना हे सोमाख्य ओषधे तासामोषधीनां त्वमुत्तमासि। यस्मादेवम् तस्मादरमलमत्यर्थं कामाय कान्ताय हृदे हृदयाय शं सुखकरी भवेति शेषः॥१८॥