याः फ॒लिनी॒र्या अ᳚फ॒ला अ᳚पु॒ष्पा याश्च᳚ पु॒ष्पिणी᳚ः ।
बृह॒स्पति᳚प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह᳚सः ॥
बृह॒स्पति᳚प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह᳚सः ॥
पदपाठः (Word-by-word)
याः । फ॒लिनीः᳚ । याः । अ॒फ॒लाः । अ॒पु॒ष्पाः । याः । च॒ । पु॒ष्पिणीः᳚ ।
बृह॒स्पति᳚॑प्रसूताः । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अंह᳚सः ॥
बृह॒स्पति᳚॑प्रसूताः । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अंह᳚सः ॥
सायणभाष्यम् (Sayana Commentary)
याः फलिनीः फलवत्यो या अफलाः फलवर्जिता या अपुष्पाः पुष्परहिता याश्च पुष्पिणीः पुष्पवत्यो बृहस्पति प्रसूताः। बृहस्पतिर्मन्त्राभिमानी देवः। तेनानुज्ञाताः। ता नोऽस्मानंहसो मुञ्चन्तु। मोचयन्तु॥१५॥