श्रवणम्

10.97.3
ओष᳚धी॒ः प्रति᳚ मोदध्वं॒ पुष्प᳚वतीः प्र॒सूव᳚रीः ।
अश्वा᳚ इव स॒जित्व᳚रीर्वी॒रुधः᳚ पारयि॒ष्ण्व᳚ः ॥
▶ पदपाठः (Word-by-word)
ओष᳚धीः । प्रति᳚ । मो॒द॒ध्व॒म् । पुष्प᳚॑वतीः । प्र॒॑सूव᳚रीः ।
अश्वाः᳚॑इव । स॒॑जित्व᳚रीः । वी॒रुधः᳚ । पा॒र॒यि॒ष्ण्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ओषधीरोशधयः प्रति मोदध्वम्। इमं रुग्णं प्रति मुदिता हृष्टा भवत। कीदृश्यो यूयम्। पुस्पवतीः पुश्पवत्यः प्रसूवरीः। प्रकर्षेण सूयन्त उपभोगायेति प्रसवाः फलानि। तद्वत्यः किञ्चाश्वा इवाश्नुवाना हया इव सजित्वरीः सह रोगं जयन्त्यः वीरुधो व्रोहन्त्यः पारयिष्ण्वो रुग्णं पुरुषं पारयन्त्यो रोगात्॥३॥