याश्चे॒दमु᳚पशृ॒ण्वन्ति॒ याश्च᳚ दू॒रं परा᳚गताः ।
सर्वा᳚ः सं॒गत्य᳚ वीरुधो॒॑स्यै सं द᳚त्त वी॒र्य᳚म् ॥
सर्वा᳚ः सं॒गत्य᳚ वीरुधो॒॑स्यै सं द᳚त्त वी॒र्य᳚म् ॥
पदपाठः (Word-by-word)
याः । च॒ । इ॒दम् । उ॒प॒॑शृ॒ण्वन्ति᳚ । याः । च॒ । दू॒रम् । परा᳚॑गताः ।
सर्वाः᳚ । स॒म्॑गत्य᳚ । वी॒रु॒धः॒ । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य᳚म् ॥
सर्वाः᳚ । स॒म्॑गत्य᳚ । वी॒रु॒धः॒ । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
याश्चौशधय इदं स्तोत्रमुपशृण्वन्ति याश्चौषधयो दूरं परागताः सर्वा वीरुधः सङ्गत्य सङ्गताः सत्यो हे वीरुधः अस्यै रुग्णतन्वे वीर्यं सं दत्त॥२१॥