ओष᳚धी॒रिति᳚ मातर॒स्तद्वो᳚ देवी॒रुप᳚ ब्रुवे ।
स॒नेय॒मश्वं॒ गां वास᳚ आ॒त्मानं॒ तव᳚ पूरुष ॥
स॒नेय॒मश्वं॒ गां वास᳚ आ॒त्मानं॒ तव᳚ पूरुष ॥
पदपाठः (Word-by-word)
ओष᳚धीः । इति᳚ । मा॒त॒रः॒ । तत् । वः॒ । दे॒वीः॒ । उप᳚ । ब्रु॒वे॒ ।
स॒नेय᳚म् । अश्व᳚म् । गाम् । वासः᳚ । आ॒त्मान᳚म् । तव᳚ । पु॒रु॒ष॒ ॥
स॒नेय᳚म् । अश्व᳚म् । गाम् । वासः᳚ । आ॒त्मान᳚म् । तव᳚ । पु॒रु॒ष॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे ओषधीरोषधयो देवीर्देव्यो द्योतनादिगुणका हे मातरो जनानां मातृभूताः। मातृवद्धितकारित्वान्मातृत्वोपचारः। अथवा मातर आरोग्यनिर्मात्र्यह् वो युश्माकं सम्बन्धिनं भिषजं तद्वक्ष्यमानमितीत्थमुप ब्रुवे। उपब्रवीमि। किं तदिति चेत् उच्यते। ओशध्यर्थमहमश्वं गां पासोऽंशुकं किं बहुनात्मानमपि हे पुरुष चिकित्सक तव तुभ्यम् सनेयम् । ददामि॥४॥