श्रवणम्

10.97.13 समानपद
सा॒कं य᳚क्ष्म॒ प्र प᳚त॒ चाषे᳚ण किकिदी॒विना᳚ ।
सा॒कं वात᳚स्य॒ ध्राज्या᳚ सा॒कं न᳚श्य नि॒हाक᳚या ॥
▶ पदपाठः (Word-by-word)
सा॒कम् । य॒क्ष्म॒ । प्र । प॒त॒ । चाषे᳚ण । कि॒कि॒दी॒विना᳚ ।
सा॒कम् । वात᳚स्य । ध्राज्या᳚ । सा॒कम् । न॒श्य॒ । नि॒॑हाक᳚या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अस्मदीयस्य पुरुषस्य शरीराधिष्ठायिन्यक्ष्म व्याधे त्वम् साकं सहैव प्रपत। प्रकर्षॆण शीघ्रं गच्छ। केन साकमिति उच्यते। चाषेणातिशीघ्रम् पतताचाषाख्येन पक्षिणा सह। तथा किकिदीविना पक्षिणा च सह। तथा वातस्य शीघ्रं गच्छतो वायोर्ध्राज्या। ध्रज गतौ। गतिवेगेन सह गच्छ। तथा निहाकया गोधिकया साकं नश्य। नाशं प्राप्नुहि॥१३॥