श्रवणम्

10.97.12
यस्यौ᳚षधीः प्र॒सर्प॒थाङ्ग᳚मङ्गं॒ परु᳚ष्परुः ।
ततो॒ यक्ष्मं॒ वि बा᳚धध्व उ॒ग्रो म᳚ध्यम॒शीरि᳚व ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ओ॒ष॒धीः॒ । प्र॒॑सर्प᳚थ । अङ्ग᳚म्॑अङ्गम् । परुः᳚॑परुः ।
ततः᳚ । यक्ष्म᳚म् । वि । बा॒ध॒ध्वे॒ । उ॒ग्रः । म॒ध्य॒म॒शीः॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ओषधीरोषधयः यस्य रुग्णस्याङ्गमङ्गं यद्यदङ्गं परुःपरुर्यद्यत्पर्व प्रसर्पथ प्रकर्षॆणाश्रयथ ततोऽङ्गात्पर्वणश्च यक्ष्मम् व्याधिं वि बाधध्वे। उग्रं उद्गूर्णबलो मध्यमशीर्मध्यमस्थाने वर्तमानो राजा यथोपद्रवकारिणः समनन्तरं शत्रून्पदेपदे विबाधते तद्वत्॥१२॥