श्रवणम्

10.97.22 समानपद
ओष᳚धय॒ः सं व᳚दन्ते॒ सोमे᳚न स॒ह राज्ञा᳚ ।
यस्मै᳚ कृ॒णोति᳚ ब्राह्म॒णस्तं रा᳚जन्पारयामसि ॥
▶ पदपाठः (Word-by-word)
ओष᳚धयः । सम् । व॒द॒न्ते॒ । सोमे᳚न । स॒ह । राज्ञा᳚ ।
यस्मै᳚ । कृ॒णोति᳚ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न् । पा॒र॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऒषधयः सर्वाः सोमेन राज्ञा सह सं वदन्ते। संवादं कुर्वन्ति। किमिति उच्यते। यस्मै रुग्णाय ब्राह्मण ओषधिसामर्थ्यज्ञो ब्राह्मणो वैद्यः कृणोति करोति चिकित्सां तं रुग्णं हे राजन् पारयामसि। पारयामः। इदन्तो मसिः॥२२॥