श॒तं वो᳚ अम्ब॒ धामा᳚नि स॒हस्र᳚मु॒त वो॒ रुहः᳚ ।
अधा᳚ शतक्रत्वो यू॒यमि॒मं मे᳚ अग॒दं कृ᳚त ॥
अधा᳚ शतक्रत्वो यू॒यमि॒मं मे᳚ अग॒दं कृ᳚त ॥
पदपाठः (Word-by-word)
श॒तम् । वः॒ । अ॒म्ब॒ । धामा᳚नि । स॒हस्र᳚म् । उ॒त । वः॒ । रुहः᳚ ।
अध᳚ । श॒त॒॑क्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥
अध᳚ । श॒त॒॑क्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अम्ब मातर ओषधयः वो युष्माकं धामानि स्थानानि जन्मानि वा शतमपरिमितानि। उतापि च वो युश्माकम् रुहः प्ररोहः प्रोद्गमह् सहस्रमपरिमितः। अधापि च हे शतक्रत्वः शतकर्मानह् यूयमिमं मे मां मदीयं वा जनमामयग्रस्तमगदम्। गदो रोगः। तद्रहितं कृत। कुरुत॥२॥