श्रवणम्

10.97.16
मु॒ञ्चन्तु᳚ मा शप॒थ्या॒३॒᳚दथो᳚ वरु॒ण्या᳚दु॒त ।
अथो᳚ य॒मस्य॒ पड्बी᳚शा॒त्सर्व᳚स्माद्देवकिल्बि॒षात् ॥
▶ पदपाठः (Word-by-word)
मु॒ञ्चन्तु᳚ । मा॒ । श॒प॒थ्या᳚त् । अथो॒ इति᳚ । व॒रु॒ण्या᳚त् । उ॒त ।
अथो॒ इति᳚ । य॒मस्य᳚ । पड्बी᳚शात् । सर्व᳚स्मात् । दे॒व॒॑कि॒ल्बि॒षात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मा मामोषधयः शपथ्याच्छपथसञ्जातादेनसः सकाशान्मुञ्चन्तु। अथो अपि च वरुण्याद्वरुणसम्भवान्मां मुञ्चन्तु। वरुणोऽपि स्वपाशेन जातमात्रम् पुरुषं बध्नाति। उतेति पूरणः। अथो अपि च यमस्य पड्बीशात्पादबन्धनान्निगडान्मुञ्चन्तु। न केवलं वरुनादेः पापात् किन्तु सर्वस्याद्देवकिल्बिषाद्देवैः कृतात्पापान्मुञ्चन्तु॥१६॥