श्रवणम्

10.97.6
यत्रौष᳚धीः स॒मग्म᳚त॒ राजा᳚न॒ः समि᳚ताविव ।
विप्र॒ः स उ᳚च्यते भि॒षग्र᳚क्षो॒हामी᳚व॒चात᳚नः ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । ओष᳚धीः । स॒म्॑अग्म᳚त । राजा᳚नः । समि᳚तौ॑इव ।
विप्रः᳚ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒॑हा । अ॒मी॒व॒॑चात᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्देशे ओषधीरोषधयः समग्मत सङ्गच्छन्ते। राजानह् समिताविव सङ्ग्रामे यथा सङ्गता भवन्ति तद्वत्। तासाम् नानाविधानामोषधीनां सङ्गमनं यस्मिन्देशेऽस्ति तत्र विप्रः प्राज्ञो ब्राह्मणो भिषगुच्यते रक्षोहा रक्षोहन्ता। अमीवचातनः। अमीवा व्याधिः। तस्य चातनश्चातयिता नाशयिता च भवति तदानीम्॥६॥