मा वो᳚ रिषत्खनि॒ता यस्मै᳚ चा॒हं खना᳚मि वः ।
द्वि॒पच्चतु᳚ष्पद॒स्माकं॒ सर्व᳚मस्त्वनातु॒रम् ॥
द्वि॒पच्चतु᳚ष्पद॒स्माकं॒ सर्व᳚मस्त्वनातु॒रम् ॥
पदपाठः (Word-by-word)
मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै᳚ । च॒ । अ॒हम् । खना᳚मि । वः॒ ।
द्वि॒॑पत् । चतुः᳚॑पत् । अ॒स्माक᳚म् । सर्व᳚म् । अ॒स्तु॒ । अ॒ना॒तु॒रम् ॥
द्वि॒॑पत् । चतुः᳚॑पत् । अ॒स्माक᳚म् । सर्व᳚म् । अ॒स्तु॒ । अ॒ना॒तु॒रम् ॥
सायणभाष्यम् (Sayana Commentary)
हे ओशधयः वो युश्मान्मा रिशत्। मा हिंस्यात्। कः। खनिता भूमेः खननकर्ता। यस्मै रुग्णाय चाहं खनामि वो युश्मान्। किञ्चास्माकं सम्बन्धि द्विपत् पुत्रभृत्यादिकं चतुष्पद्गोमहिश्यादिकं च यदस्ति तत्सर्वमनातुरमरोगमस्तु॥२०॥