त्वमु᳚त्त॒मास्यो᳚षधे॒ तव᳚ वृ॒क्षा उप᳚स्तयः ।
उप᳚स्तिरस्तु॒ सो॒३॒᳚॑स्माकं॒ यो अ॒स्मा{4} अ᳚भि॒दास᳚ति ॥
उप᳚स्तिरस्तु॒ सो॒३॒᳚॑स्माकं॒ यो अ॒स्मा{4} अ᳚भि॒दास᳚ति ॥
पदपाठः (Word-by-word)
त्वम् । उ॒त्॑त॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव᳚ । वृ॒क्षाः । उप᳚स्तयः ।
उप᳚स्तिः । अ॒स्तु॒ । सः । अ॒स्माक᳚म् । यः । अ॒स्मान् । अ॒भि॒॑दास᳚ति ॥
उप᳚स्तिः । अ॒स्तु॒ । सः । अ॒स्माक᳚म् । यः । अ॒स्मान् । अ॒भि॒॑दास᳚ति ॥
सायणभाष्यम् (Sayana Commentary)
हे ओषधे सोमाख्ये त्वमोषधीनामन्यासामुत्तमासि। तव वृक्षाह् सर्व उपस्तयः। अधः शायिन एव। तथा सति स उपस्तिरस्तु अधः शायी भवतु योऽस्मानभिदासति हिनस्ति। भ्रातृव्य इति॥२३॥