इष्कृ᳚ति॒र्नाम᳚ वो मा॒ताथो᳚ यू॒यं स्थ॒ निष्कृ᳚तीः ।
सी॒राः प᳚त॒त्रिणी᳚ः स्थन॒ यदा॒मय᳚ति॒ निष्कृ᳚थ ॥
सी॒राः प᳚त॒त्रिणी᳚ः स्थन॒ यदा॒मय᳚ति॒ निष्कृ᳚थ ॥
पदपाठः (Word-by-word)
इष्कृ᳚तिः । नाम᳚ । वः॒ । मा॒ता । अथो॒ इति᳚ । यू॒यम् । स्थ॒ । निः॑कृ᳚तीः ।
सी॒राः । प॒त॒त्रिणीः᳚ । स्थ॒न॒ । यत् । आ॒मय᳚ति । निः । कृ॒थ॒ ॥
सी॒राः । प॒त॒त्रिणीः᳚ । स्थ॒न॒ । यत् । आ॒मय᳚ति । निः । कृ॒थ॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे ओषधयः वो माता जननीष्कृतिर्नाम। सर्वेशां रुग्णानां निष्कर्त्रीति प्रसिद्धा यस्मात्सा रुग्णं निष्करोति। अथातो यूयमपि निष्कृतीर्निष्कृतयः स्थः। भवथ। किञ्च यूयं सीराः सरणशीलाः पतत्रीणीः पतनवत्यश्च स्थन। भवथ। तप्तनबिति तनादेशः। किञ्च पुरुषो यद्यद्यामयति व्याधितो भवति तं निष्क्रुथ। संस्कुरुथः॥९॥