उच्छुष्मा॒ ओष᳚धीनां॒ गावो᳚ गो॒ष्ठादि᳚वेरते ।
धनं᳚ सनि॒ष्यन्ती᳚नामा॒त्मानं॒ तव᳚ पूरुष ॥
धनं᳚ सनि॒ष्यन्ती᳚नामा॒त्मानं॒ तव᳚ पूरुष ॥
पदपाठः (Word-by-word)
उत् । शुष्माः᳚ । ओष᳚धीनाम् । गावः᳚ । गो॒स्थात्॑इ᳚व । ई॒र॒ते॒ ।
धन᳚म् । स॒नि॒ष्यन्ती᳚नाम् । आ॒त्मान᳚म् । तव᳚ । पु॒रु॒ष॒ ॥
धन᳚म् । स॒नि॒ष्यन्ती᳚नाम् । आ॒त्मान᳚म् । तव᳚ । पु॒रु॒ष॒ ॥
सायणभाष्यम् (Sayana Commentary)
ओषधीनां शुष्मा बलान्युदीरते। उद्गच्छन्ति। रुग्णे स्ववीर्यं प्रोद्गमयन्तित्यर्थः। गावो गोष्ठादिव।द् ता यथा ततः सकाशादुदीरते तद्वत्। कीदृशीनामोषधीनाम् । उच्यते। धनं स्वसामर्थ्यलक्शणं सनिष्यन्तीनां दातुमिच्छन्तीनाम्। किं प्रतीति उच्यते। पूरुष पुरुष रोगग्रस्त तवात्मानं शरीरं प्रति। यद्वा। प्ररोहन्तीरोषधीर्दृष्ट्वा वदति। हे पुरुष प्रियङ्ग्वाद्योषधिस्वामिन् तवात्मानं वर्धयितुं धनं सनिष्यन्तीनां व्रीह्याद्योशधीनां शुष्मा उदीरते॥८॥