अ॒न्या वो᳚ अ॒न्याम᳚वत्व॒न्यान्यस्या॒ उपा᳚वत ।
ताः सर्वा᳚ः संविदा॒ना इ॒दं मे॒ प्राव᳚ता॒ वचः᳚ ॥
ताः सर्वा᳚ः संविदा॒ना इ॒दं मे॒ प्राव᳚ता॒ वचः᳚ ॥
पदपाठः (Word-by-word)
अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः᳚ । उप᳚ । अ॒व॒त॒ ।
ताः । सर्वाः᳚ । स॒म्॑वि॒दा॒नाः । इ॒दम् । मे॒ । प्र । अ॒व॒त॒ । वचः᳚ ॥
ताः । सर्वाः᳚ । स॒म्॑वि॒दा॒नाः । इ॒दम् । मे॒ । प्र । अ॒व॒त॒ । वचः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे ओषधयः वो युश्माकं मध्येऽन्यौशधिरन्यामोषधिमवतु। प्राप्नोतु। अवतिरत्र गथर्थः। तथान्यान्यस्याः समीपमुपावत। उपगच्छत। एवं याः सन्ति क्शित्यामोषधयः ताः सर्वाः संविदानाः परस्परमैकमत्यं प्राप्ताः सत्य इदं मे मदीयं वचः प्रार्थनालक्षणं वचनं प्रावत। प्ररक्षत॥१४॥