श्रवणम्

10.97.17
अ॒व॒पत᳚न्तीरवदन्दि॒व ओष᳚धय॒स्परि᳚ ।
यं जी॒वम॒श्नवा᳚महै॒ न स रि᳚ष्याति॒ पूरु᳚षः ॥
▶ पदपाठः (Word-by-word)
अ॒व॒॑पत᳚न्तीः । अ॒व॒द॒न् । दि॒वः । ओष᳚धयः । परि᳚ ।
यम् । जी॒वम् । अ॒श्नवा᳚महै । न । सः । रि॒ष्या॒ति॒ । पुरु᳚षः ॥
▶ सायणभाष्यम् (Sayana Commentary)

चिवो द्युलोकादवपतन्तीरवपतन्त्य ओषधय इत्थं पर्यवदन्। किमिति उच्यते। यं जीवं जीवन्तमश्नवामहै व्याप्नुमो न स पूरुषः पुरुषो रिष्याति। रिश्यति। विनश्यति॥१७॥